अमरकोशः


श्लोकः

दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः । पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः ॥ १९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दैत्यारि दैत्यारिः पुंलिङ्गः दैत्यानामरिः । तत्पुरुषः समासः इकारान्तः
2 पुण्डरीकाक्ष पुण्डरीकाक्षः पुंलिङ्गः पुण्डरीकमिवाक्षिणी यस्य । तत्पुरुषः समासः अकारान्तः
3 गोविन्द गोविन्दः पुंलिङ्गः गां भुवं धेनुं स्वर्गं वेदं वा अविदत् । तत्पुरुषः समासः अकारान्तः
4 गरुडध्वज गरुडध्वजः पुंलिङ्गः गरुडो ध्वजश्चिह्नमस्या । बहुव्रीहिः समासः अकारान्तः
5 पीताम्बर पीताम्बरः पुंलिङ्गः पीतमम्बरं यस्य । बहुव्रीहिः समासः अकारान्तः
6 अच्युत अच्युतः पुंलिङ्गः नास्ति च्युतं स्खलनं स्वपदाद्यस्य । तत्पुरुषः समासः अकारान्तः
7 शार्ङ्गिन् शार्ङ्गी पुंलिङ्गः शृङ्गस्य विकारः शार्ङ्गं धनुः । अञ् तद्धितः नकारान्तः
8 विष्वक्सेन विष्वक्सेनः पुंलिङ्गः विषूची सेना यस्य । बहुव्रीहिः समासः अकारान्तः
9 जनार्दन जनार्दनः पुंलिङ्गः जननं जनः। जनो जन्म । तमर्दयति जनार्दनः । तत्पुरुषः समासः अकारान्तः