अमरकोशः


श्लोकः

वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ । आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ ॥ २७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वञ्चुल वञ्चुलः पुंलिङ्गः अकारान्तः
2 चित्रकृत् चित्रकृत् पुंलिङ्गः तकारान्तः
3 पीतन पीतनः पुंलिङ्गः पीतं करोति । युच् उणादिः अकारान्तः
4 कपीतन कपीतनः पुंलिङ्गः कपीनां कपेर्वर्णस्य वा तनः । अच् कृत् अकारान्तः
5 आम्रातक आम्रातकः पुंलिङ्गः आम्रमतति । वुन् उणादिः अकारान्तः
6 मधूक मधूकः पुंलिङ्गः उक उणादिः अकारान्तः
7 गुडपुष्प गुडपुष्पः पुंलिङ्गः अकारान्तः
8 मधुद्रुम मधुद्रुमः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः