अमरकोशः


श्लोकः

पत्रोर्णं धौतकौशेयं बहुमूल्यं महाधनम् । क्षौमं दुकूलं स्याद् द्वे तु निवीतं प्रावृतं त्रिषु ॥ ११३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पत्रोर्ण पत्रोर्णम् नपुंसकलिङ्गः पत्त्रेषु कृतोर्णा पत्त्रोर्णास्त्यत्र । अच् तद्धितः अकारान्तः
2 धौतकौशेय धौतकौशेयम् नपुंसकलिङ्गः धाव्यते स्म । तत्पुरुषः समासः अकारान्तः
3 बहुमूल्य बहुमूल्यम् नपुंसकलिङ्गः बहु मूल्यमस्य ॥ बहुव्रीहिः समासः अकारान्तः
4 महाधन महाधनम् नपुंसकलिङ्गः महद् धनं मूल्यमस्य ॥ तत्पुरुषः समासः अकारान्तः
5 क्षौम क्षौमम् नपुंसकलिङ्गः क्षौति । मन् उणादिः अकारान्तः
6 दुकूल दुकूलम् नपुंसकलिङ्गः दुष्टं कूलति । कृत् अकारान्तः
7 निवीत निवीतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नि वीयते स्म । क्त कृत् अकारान्तः
8 प्रावृत प्रावृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्राव्रियते स्म । क्त कृत् अकारान्तः