अमरकोशः


श्लोकः

समे तु पादग्रहणमभिवादनमित्युभे । भिक्षुः परिव्राट् कर्मन्दी पाराशर्यपि मस्करी ॥ ४१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पादग्रहण पादग्रहणम् नपुंसकलिङ्गः पादयोर्ग्रहणं स्पर्शः ॥ तत्पुरुषः समासः अकारान्तः
2 अभिवादन अभिवादनम् नपुंसकलिङ्गः अभिमुखीकरणार्थं वादनम् । ल्युट् कृत् अकारान्तः
3 भिक्षु भिक्षुः पुंलिङ्गः भिक्षणशीलः । कृत् उकारान्तः
4 परिव्राज् परिव्राज् पुंलिङ्गः परित्यज्य सर्वं व्रजति । क्विप् उणादिः जकारान्तः
5 कर्मन्दिन् कर्मन्दी पुंलिङ्गः कर्मन्देन प्रोक्तं भिक्षुसूत्रमधीते । इनि तद्धितः नकारान्तः
6 पाराशरिन् पाराशरी पुंलिङ्गः पराशरस्य गोत्रापत्यम् । यञ् तद्धितः नकारान्तः
7 मस्करिन् मस्करी पुंलिङ्गः मस्कनम् । इनि तद्धितः नकारान्तः