अमरकोशः


श्लोकः

ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः । आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने ॥ १ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ऊरव्य ऊरव्यः पुंलिङ्गः ब्रह्मण ऊर्वोर्भवाः । यत् तद्धितः अकारान्तः
2 ऊरूज ऊरूजः पुंलिङ्गः ऊरोर्जाताः । कृत् अकारान्तः
3 अर्य अर्यः पुंलिङ्गः अर्यते । यत् कृत् अकारान्तः
4 वैश्य वैश्यः पुंलिङ्गः विशन्ति । षञ् तद्धितः अकारान्तः
5 भूमिस्पृश् भूमिस्पृश् पुंलिङ्गः भूमिं स्पृशन्ति । क्वुन् कृत् शकारान्तः
6 विश् विश् पुंलिङ्गः विशन्ति । क्विप् कृत् शकारान्तः
7 आजीव आजीवः पुंलिङ्गः आजीव्यतेऽनेन । घञ् कृत् अकारान्तः
8 जीविका जीविका स्त्रीलिङ्गः जीव्यतेऽनया । कृत् आकारान्तः
9 वार्ता वार्ता स्त्रीलिङ्गः वृत्तिरस्त्यस्याम् । तद्धितः आकारान्तः
10 वृत्ति वृत्तिः स्त्रीलिङ्गः वर्ततेऽनया । क्तिन् स्त्रीप्रत्ययः इकारान्तः
11 वर्तन वर्तनम् नपुंसकलिङ्गः वर्तन्ते जीवन्त्यनेन । ल्युट् कृत् अकारान्तः
12 जीवन जीवनम् नपुंसकलिङ्गः जीवन्त्यनेन । ल्युट् कृत् अकारान्तः