अमरकोशः


श्लोकः

प्रालम्बमृजुलम्बि स्यात्कण्ठाद्वैकक्षकं तु तत् । यत्तिर्यक् क्षिप्तमुरसि शिखास्वापीडशेखरौ ॥ १३६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रालम्ब प्रालम्बम् नपुंसकलिङ्गः माल्यमेव कण्ठादूर्ध्वं लम्बमानम् । अच् कृत् अकारान्तः
2 वैकक्षक वैकक्षकम् नपुंसकलिङ्गः विशिष्टः कक्षोऽस्माद्विकक्षमुरः । अण् कृत् अकारान्तः
3 आपीड आपीडः पुंलिङ्गः शिखाक्षिप्तं माल्यम् । अच् कृत् अकारान्तः
4 शेखर शेखरः पुंलिङ्गः शिङ्खति । अर बाहुलकात् अकारान्तः