अमरकोशः


श्लोकः

सत्कृत्यालंकृतां कन्यां यो ददाति स कूकुदः । लक्ष्मीवांल्लक्ष्मण: श्रील: श्रीमान् स्निग्धस्तु वत्सलः ॥ १४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कूकुद कूकुदः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कोकते । कः कृत् अकारान्तः
2 लक्ष्मीवत् लक्ष्मीवत् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः लक्ष्मीरस्यास्ति । मतुप् तद्धितः तकारान्तः
3 लक्ष्मण लक्ष्मणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तद्धितः अकारान्तः
4 श्रील श्रीलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः श्रीरस्यास्ति । लच् तद्धितः अकारान्तः
5 श्रीमत् श्रीमत् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः श्रीरस्यास्ति । मतुप् तद्धितः तकारान्तः
6 स्निग्ध स्निग्धः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्निह्यति स्म । क्त कृत् अकारान्तः
7 वत्सल वत्सलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वत्से पुत्रादिस्नेहपात्रेऽभिलाषोऽस्यास्ति । लच् तद्धितः अकारान्तः