अमरकोशः


श्लोकः

मधुव्रतो मधुकरो मधुलिण्मधुपालिन: । द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः ॥ २९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मधुव्रत मधुव्रतः पुंलिङ्गः मधु व्रतं भक्ष्यं यस्य ॥ बहुव्रीहिः समासः अकारान्तः
2 मधुकर मधुकरः पुंलिङ्गः मधु करोति तच्छीलः । कृत् अकारान्तः
3 मधुलिह् मधुलिट् पुंलिङ्गः मधु लेढि । क्विप् कृत् हकारान्तः
4 मधुप मधुपः पुंलिङ्गः मधु पिबति कृत् अकारान्तः
5 अलिन् अली पुंलिङ्गः इनि तद्धितः नकारान्तः
6 द्विरेफ द्विरेफः पुंलिङ्गः द्वौ रेफौ नाम्नि यस्य ॥ बहुव्रीहिः समासः अकारान्तः
7 पुष्पलिह् पुष्पलिट् पुंलिङ्गः क्विप् कृत् हकारान्तः
8 भृङ्ग भृङ्गः पुंलिङ्गः बिभर्ति । गन् उणादिः अकारान्तः
9 षट्पद षट्पदः पुंलिङ्गः षट् पदान्यस्य ॥ बहुव्रीहिः समासः अकारान्तः
10 भ्रमर भ्रमरः पुंलिङ्गः भ्रमति । करन् उणादिः अकारान्तः
11 अलि अलिः पुंलिङ्गः अलति । इन् उणादिः इकारान्तः