अमरकोशः


श्लोकः

मौद्गीनकौद्रवीणादि शेषधान्योद्भवक्षमम् । बीजाकृतं तूप्तकृष्टं सीत्यं कृष्टं च हल्यवत् ॥ ८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मौद्गीन मौद्गीनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मुद्गानाम् च भवनं क्षेत्रम् । खञ् तद्धितः अकारान्तः
2 कौद्रवीण कौद्रवीणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कोद्रवाणाम् च भवनं क्षेत्रम् । खञ् तद्धितः अकारान्तः
3 बीजाकृत बीजाकृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वीजेन सह कृतं कृष्टम् । तत्पुरुषः समासः अकारान्तः
4 उप्तकृष्ट उप्तकृष्टः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पूर्वम्) उप्तं च तत् (पश्चात्) कृष्टं च । तत्पुरुषः समासः अकारान्तः
5 सीत्य सीत्यम् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सीतया सम्मितम् । यत् तद्धितः अकारान्तः
6 कृष्ट कृष्टम् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कृष्यते स्म । क्त कृत् अकारान्तः
7 हल्य हल्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः हलेन कृष्टम् । यत् तद्धितः अकारान्तः