अमरकोशः


श्लोकः

शैलेयं तालपर्णी तु दैत्या गन्धकुटी मुरा । गन्धिनी गजभक्ष्या तु सुवहा सुरभी रसा ॥ १२३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शैलेय शैलेयम् नपुंसकलिङ्गः शिलायां भवम् । ढक् तद्धितः अकारान्तः
2 तालपर्णी तालपर्णी स्त्रीलिङ्गः ताल: पर्णमस्याः । बहुव्रीहिः समासः ईकारान्तः
3 दैत्या दैत्या स्त्रीलिङ्गः दितेरियम् । तद्धितः आकारान्तः
4 गन्धकुटी गन्धकुटी स्त्रीलिङ्गः गन्धस्य कुटीव ॥ तत्पुरुषः समासः ईकारान्तः
5 मुरा मुरा स्त्रीलिङ्गः मुरति । कृत् आकारान्तः
6 गन्धिनी गन्धिनी स्त्रीलिङ्गः प्रशस्तो गन्धोऽस्याः । इनि तद्धितः ईकारान्तः
7 गजभक्ष्या गजभक्ष्या स्त्रीलिङ्गः गजैर्भक्ष्यते । तत्पुरुषः समासः आकारान्तः
8 सुवहा सुवहा स्त्रीलिङ्गः सुवहति । अच् कृत् आकारान्तः
9 सुरभी सुरभी स्त्रीलिङ्गः सुष्ठ रभते । इन् उणादिः ईकारान्तः
10 रसा रसा स्त्रीलिङ्गः रस्यते । घञ् कृत् आकारान्तः