अमरकोशः


श्लोकः

गोचरा इन्द्रियार्थाश्च हृषीकं विषयीन्द्रियम् । कर्मेन्द्रियं तु पाय्वादि मनोनेत्रादि धीन्द्रियम् ॥ ८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 हृषीक हृषीकम् नपुंसकलिङ्गः हृष्यन्त्यनेन । ईकन् उणादिः अकारान्तः
2 विषयिन् विषयी नपुंसकलिङ्गः विसिन्वन्ति निबध्नन्तीन्द्रियाणि । बहुव्रीहिः समासः नकारान्तः
3 इन्द्रिय इन्द्रियम् नपुंसकलिङ्गः इन्द्रस्यात्मनो लिङ्गम् । घञ् कृत् अकारान्तः
4 कर्मेन्द्रिय कर्मेन्द्रियम् नपुंसकलिङ्गः कर्मसाधकमिन्द्रियं कर्मेन्द्रियम् । समासः अकारान्तः
5 धीन्द्रिय धीन्द्रियम् नपुंसकलिङ्गः धीसाधनमिन्द्रियं धीन्द्रियम् । समासः अकारान्तः