अमरकोशः


श्लोकः

सुराज्ञि देशे राजन्वान् स्यात्ततोऽन्यत्र राजवान् । गोष्ठं गोस्थानकं तत्तु गौष्ठीनं भूतपूर्वकम् ॥ १३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 राजन्वत् राजन्वान् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शोभनो राजा यत्र । मतुप् तद्धितः तकारान्तः
2 राजवत् राजवान् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शोभनो राजा यत्र । मतुप् तद्धितः तकारान्तः
3 गोष्ठ गोष्ठम् नपुंसकलिङ्गः गावस्तिष्ठन्ति यत्र । कृत् अकारान्तः
4 गोस्थानक गोस्थानकम् नपुंसकलिङ्गः गवां स्थानम् । तत्पुरुषः समासः अकारान्तः
5 गौष्ठीन गौष्ठीनम् नपुंसकलिङ्गः खञ् तद्धितः अकारान्तः