अमरकोशः


श्लोकः

धर्मराजः पितृपतिः समवर्ती परेतराट्। कृतान्तो यमुनाभ्राता शमनो यमराड्यमः॥ ५८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 धर्मराज धर्मराजः पुंलिङ्गः धर्मस्य राजा । तत्पुरुषः समासः अकारान्तः
2 पितृपति पितृपतिः पुंलिङ्गः पितॄणां पतिः । तत्पुरुषः समासः इकारान्तः
3 समवर्तिन् समवर्तिन् पुंलिङ्गः समं वर्तितुं शीलमस्य । णिनि कृत् नकारान्तः
4 परेतराज् परेतराट् पुंलिङ्गः परेतेषु मृतेषु राजते । तत्पुरुषः समासः जकारान्तः
5 कृतान्त कृतान्तः पुंलिङ्गः कृतोऽन्तो विनाशो येन । बहुव्रीहिः समासः अकारान्तः
6 यमुनाभ्रातृ यमुनाभ्राता पुंलिङ्गः यमुनाया भ्राता । तत्पुरुषः समासः ऋकारान्तः
7 शमन शमनः पुंलिङ्गः शमयति । ल्यु कृत् अकारान्तः
8 यमराज यमराट् पुंलिङ्गः यमेन संयमेन राजते । तत्पुरुषः समासः अकारान्तः
9 यम यमः पुंलिङ्गः यमयति । अच् कृत् अकारान्तः