अमरकोशः


श्लोकः

पवित्रः प्रयतः पूतः पाषण्डाः सर्वलिङ्गिनः । पालाशो दण्ड आषाढो व्रते राम्भस्तु वैणव: ॥ ४५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पवित्र पवित्रः पुंलिङ्गः पवते । इत्र उणादिः अकारान्तः
2 प्रयत प्रयतः पुंलिङ्गः प्रयच्छति स्म । क्त कृत् अकारान्तः
3 पूत पूतः पुंलिङ्गः पवते स्म । क्त कृत् अकारान्तः
4 पाषण्ड पाषण्डः पुंलिङ्गः पापं सनोति । उणादिः अकारान्तः
5 सर्वलिङ्गिन् सर्वलिङ्गी पुंलिङ्गः सर्वाणि च तानि लिङ्गानि इनि तद्धितः नकारान्तः
6 आषाढ आषाढः पुंलिङ्गः आषाढी पूर्णिमा प्रयोजनमस्य । अण् तद्धितः अकारान्तः
7 राम्भ राम्भः पुंलिङ्गः रोति । अञ् तद्धितः अकारान्तः