अमरकोशः


श्लोकः

आनायः पुंसि जालं स्यात् शणसूत्रं पवित्रकम् । मत्स्याधानी कुवेणी स्याद्बलिशं मत्स्यवेधनम् ॥ १६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आनाय आनायः पुंलिङ्गः आसमन्तान्नायोऽनेन । घञ् कृत् अकारान्तः
2 जाल जालम् नपुंसकलिङ्गः जले क्षियते । अण् कृत् अकारान्तः
3 शणसूत्र शणसूत्रम् नपुंसकलिङ्गः शणस्य सूत्रम् ॥ अच् कृत् अकारान्तः
4 पवित्रक पवित्रकम् नपुंसकलिङ्गः पवित्रमुपवीतम् । कन् तद्धितः अकारान्तः
5 मत्स्याधानी मत्स्याधानी स्त्रीलिङ्गः मत्स्या आधीयन्तेऽत्र । ल्युट् कृत् ईकारान्तः
6 कुवेणी कुवेणी स्त्रीलिङ्गः मत्स्या आधीयन्तेऽत्र । घञ् कृत् ईकारान्तः
7 बलिश बलिशम् नपुंसकलिङ्गः बलिनो मत्स्याञ् श्यति । कः कृत् अकारान्तः
8 मत्स्यवेधन मत्स्यवेधनम् नपुंसकलिङ्गः विध्यतेऽनेन ॥ ल्युट् कृत् अकारान्तः