अमरकोशः


श्लोकः

बृहस्पतिः सुराचार्यो गीर्पतिर्धिषणो गुरुः । जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः ॥ २४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 बृहस्पति बृहस्पतिः पुंलिङ्गः बृहतां पतिः । तत्पुरुषः समासः इकारान्तः
2 सुराचार्य सुराचार्यः पुंलिङ्गः सुराणामाचार्यः । तत्पुरुषः समासः अकारान्तः
3 गीर्पति गीःपतिः पुंलिङ्गः गिरां पतिः । तत्पुरुषः समासः इकारान्तः
4 धिषण धिषणः पुंलिङ्गः प्रशस्ता धिषणास्य । बहुव्रीहिः समासः अकारान्तः
5 गुरु गुरुः पुंलिङ्गः गृणाति उपदिशति । कु उणादिः उकारान्तः
6 जीव जीवः पुंलिङ्गः जीवयति अच् कृत् अकारान्तः
7 आङ्गिरस् आङ्गिरस् पुंलिङ्गः अङ्गिरसोऽपत्यम् । अण् तद्धितः सकारान्तः
8 वाचस्पति वाचस्पतिः पुंलिङ्गः वाचः पतिः तत्पुरुषः समासः इकारान्तः
9 चित्रशिखण्डिज चित्रशिखण्डिजः पुंलिङ्गः चित्रशिखण्डिनो जातः । तत्पुरुषः समासः अकारान्तः