अमरकोशः


श्लोकः

आख्याह्वे अभिधानं च नामधेयं च नाम च । हूतिराकारणाह्वानं संहूतिर्बहुभिः कृता ॥ ८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आख्या आख्या स्त्रीलिङ्गः आख्यानम् । अङ् कृत् आकारान्तः
2 आह्वा आह्वा स्त्रीलिङ्गः एवमाह्वा । आकारान्तः
3 अभिधान अभिधानम् नपुंसकलिङ्गः अभिधीयते । ल्युट् कृत् अकारान्तः
4 नामधेय नामधेयम् नपुंसकलिङ्गः म्नायते । मनिन् उणादिः अकारान्तः
5 नामन् नाम नपुंसकलिङ्गः नकारान्तः
6 हूति हूतिः स्त्रीलिङ्गः ह्वानम् । क्तिन् कृत् इकारान्तः
7 आकारणा आकारणा स्त्रीलिङ्गः आकारणम् । युच् कृत् आकारान्तः
8 आह्वान आह्वानम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
9 संहूति संहूतिः स्त्रीलिङ्गः बहुकर्तुका चेत् संहूतिः । क्तिन् कृत् इकारान्तः