अमरकोशः


श्लोकः

रञ्जनी श्रीफली तुत्था द्रोणी दोला च नीलिनी । अवल्गुज: सोमराजी सुवल्लिः सोमवल्लिका ॥ ९५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रञ्जनी रञ्जनी स्त्रीलिङ्गः रज्यतेऽनया ल्युट् कृत् ईकारान्तः
2 श्रीफली श्रीफली स्त्रीलिङ्गः श्रीमत् फलमस्या: । बहुव्रीहिः समासः ईकारान्तः
3 तुत्था तुत्था स्त्रीलिङ्गः तुद्यते । थक् उणादिः आकारान्तः
4 द्रोणी द्रोणी स्त्रीलिङ्गः द्रवति। नि उणादिः ईकारान्तः
5 दोला दोला स्त्रीलिङ्गः दोलयति । अच् कृत् आकारान्तः
6 नीलिनी नीलिनी स्त्रीलिङ्गः नीलो वर्णोऽस्त्यस्याः । इनि तद्धितः ईकारान्तः
7 अवल्गुज अवल्गुजः पुंलिङ्गः अवल्गोरशोभनाज्जातः ॥ तत्पुरुषः समासः अकारान्तः
8 सोमराजी सोमराजी पुंलिङ्गः, स्त्रीलिङ्गः सोम इव सोमेन वा राजति । तत्पुरुषः समासः ईकारान्तः
9 सुवल्लि सुवल्ली स्त्रीलिङ्गः शोभना वल्लिरस्याः ॥ बहुव्रीहिः समासः इकारान्तः
10 सोमवल्लिका सोमवल्लिका स्त्रीलिङ्गः सोमस्य वल्लिः । तत्पुरुषः समासः आकारान्तः