अमरकोशः


श्लोकः

मण्डनं चाथ मुकुटं किरीटं पुंनपुंसकम् । चूडामणिः शिरोरत्नं तरलो हारमध्यग:॥ १०२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मण्डन मण्डनम् नपुंसकलिङ्गः मण्ड्यतेऽनेन । ल्युट् कृत् अकारान्तः
2 मुकुट मुकुटम् नपुंसकलिङ्गः मङ्गतेऽनेन वा । उट् बाहुलकात् अकारान्तः
3 किरीट किरीटः पुंलिङ्गः, नपुंसकलिङ्गः किरति । कीटन् उणादिः अकारान्तः
4 चूडामणि चूडामणिः पुंलिङ्गः चूडाया मणिः । तत्पुरुषः समासः इकारान्तः
5 शिरोरत्न शिरोरत्नम् नपुंसकलिङ्गः शिरसो रत्नम् ॥ तत्पुरुषः समासः अकारान्तः
6 तरल तरलः पुंलिङ्गः तरं लाति । कृत् अकारान्तः