अमरकोशः


श्लोकः

श्ववित्तु शल्यस्तल्लोम्नि शलली शललं शलम् । वातप्रमीर्वातमृग: कोक ईहामृगो वृकः ॥ ७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 श्वाविध् श्वाविध् पुंलिङ्गः श्वानं विध्यति । क्विप् कृत् धकारान्तः
2 शल्य शल्यः पुंलिङ्गः शलति । उणादिः अकारान्तः
3 शलली शलली पुंलिङ्गः शलति । कलच् उणादिः ईकारान्तः
4 शलल शललम् नपुंसकलिङ्गः शलति । कलच् उणादिः अकारान्तः
5 शल शलम् नपुंसकलिङ्गः शलति । अच् कृत् अकारान्तः
6 वातप्रमी वातप्रमी पुंलिङ्गः वातं प्रमिमीते उणादिः ईकारान्तः
7 वातमृग वातमृगः पुंलिङ्गः वात इव वातस्य वा मृगः ॥ तत्पुरुषः समासः अकारान्तः
8 कोक कोकः पुंलिङ्गः कोकते । अच् कृत् अकारान्तः
9 ईहामृग ईहामृगः पुंलिङ्गः ईहा मृगेष्वस्य । बहुव्रीहिः समासः अकारान्तः
10 वृक वृकः पुंलिङ्गः वर्कते । कृत् अकारान्तः