अमरकोशः


श्लोकः

प्रातिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः । चौरिका स्तैन्यचौर्ये च स्तेयं लोप्त्रं तु तद्धनं ॥ २५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रतिरोधिन् प्रतिरोधी पुंलिङ्गः प्रतिरोद्धं शीलमस्य । णिनि कृत् नकारान्तः
2 परास्कन्दिन् परास्कन्दी पुंलिङ्गः परान् आस्कन्तुं शीलमस्य । णिनि कृत् नकारान्तः
3 पाटच्चर पाटच्चरः पुंलिङ्गः पाटयंश्चरति । अच् कृत् अकारान्तः
4 मलिम्लुच मलिम्लुचः पुंलिङ्गः मत्यते । कृत् अकारान्तः
5 चौरिका चौरिका स्त्रीलिङ्गः चौरस्य भावः कर्म वा । वुञ् तद्धितः आकारान्तः
6 स्तैन्य स्तैन्यम् नपुंसकलिङ्गः स्तेनस्य भावः कर्म वा । ष्यञ् तद्धितः अकारान्तः
7 चौर्य चौर्यम् नपुंसकलिङ्गः चौरस्य कर्म ष्यञ् तद्धितः अकारान्तः
8 स्तेय स्तेयम् नपुंसकलिङ्गः स्तेनस्य भावः कर्म वा । यत् तद्धितः अकारान्तः
9 लोप्त्र लोप्त्रम् नपुंसकलिङ्गः लुप्यते । ष्ट्रन् उणादिः अकारान्तः