अमरकोशः


श्लोकः

मेघपुष्पं घनरस: त्रिषु द्वे आप्यमम्मयम् । भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु ॥ ५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मेघपुष्प मेघपुष्पम् नपुंसकलिङ्गः मेघस्य पुष्पमिव । बहुव्रीहिः समासः अकारान्तः
2 घनरस घनरसः पुंलिङ्गः, नपुंसकलिङ्गः घनस्य रसः । तत्पुरुषः समासः समासः अकारान्तः
3 आप्य आप्यम् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अपां विकारः । ष्यञ् तद्धितः अकारान्तः
4 अम्मय अम्मयम् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मयट् अकारान्तः
5 भङ्ग भङ्गः पुंलिङ्गः भज्यते घञ् कृत् अकारान्तः
6 तरङ्ग तरङ्गः पुंलिङ्गः तरति । अङ्गच् उणादिः अकारान्तः
7 ऊर्मि ऊर्मिः पुंलिङ्गः, स्त्रीलिङ्गः ऋच्छति मिः उणादिः इकारान्तः
8 वीचि वीचिः पुंलिङ्गः, स्त्रीलिङ्गः वयति, ऊयते वा । ईचिः उणादिः इकारान्तः