अमरकोशः


श्लोकः

प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिकेत्यपि । नीली काला क्लीतकिका ग्रामीणा मधुपर्णिका ॥ ९४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रचोदनी प्रचोदनी स्त्रीलिङ्गः प्रचोदयति । तत्पुरुषः समासः ईकारान्तः
2 कुली कुली स्त्रीलिङ्गः कोलति । कृत् ईकारान्तः
3 क्षुद्रा क्षुद्रा स्त्रीलिङ्गः क्षुणत्ति । रक् उणादिः आकारान्तः
4 दुःस्पर्शा दुःस्पर्शा स्त्रीलिङ्गः दुस्पृश्यते । खल् कृत् आकारान्तः
5 राष्ट्रिका राष्ट्रिका स्त्रीलिङ्गः राष्ट्रमस्त्यस्याः । ठन् तद्धितः आकारान्तः
6 नीली नीली स्त्रीलिङ्गः ङीष् ईकारान्तः
7 काला काला स्त्रीलिङ्गः कल्यते । घञ् कृत् आकारान्तः
8 क्लीतकिका क्लीतकिका स्त्रीलिङ्गः क्रीतकं क्रयोऽस्त्यस्याः । ठन् तद्धितः आकारान्तः
9 ग्रामीणा ग्रामीणा स्त्रीलिङ्गः ग्रामे भवा । तद्धितः आकारान्तः
10 मधुपर्णिका मधुपर्णिका स्त्रीलिङ्गः मधुराणि पर्णान्यम्या: । बहुव्रीहिः समासः आकारान्तः