अमरकोशः


श्लोकः

मुक्तास्फोट: स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ । क्षुद्रशङ्खाः शङ्खनखाः शम्बूका जलशुक्तयः ॥ २३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मुक्तास्फोट मुक्तास्फोटः पुंलिङ्गः मुक्ताः स्फुटन्त्यत्र । घञ् कृत् अकारान्तः
2 शुक्ति शुक्तिः स्त्रीलिङ्गः शुच्यति, शोचति, शोकति, वा । क्तिच् कृत् इकारान्तः
3 शङ्ख शङ्खः पुंलिङ्गः, नपुंसकलिङ्गः शं खनति जनयति । ङः कृत् अकारान्तः
4 कम्बु कम्बुः पुंलिङ्गः, नपुंसकलिङ्गः काम्यते । उणादिः उकारान्तः
5 क्षुद्रशङ्ख क्षुद्रशङ्खाः पुंलिङ्गः क्षुद्राश्च ते शङ्खाश्च ॥ समासः अकारान्तः
6 शङ्खनक शङ्खनकाः पुंलिङ्गः शं खनन्ति । युच् कृत् अकारान्तः
7 शम्बूक शम्बूकः पुंलिङ्गः, स्त्रीलिङ्गः शाम्यति । बुक् उणादिः अकारान्तः
8 जलशुक्ति जलशुक्तिः स्त्रीलिङ्गः जलजाः शुक्तयः ॥ इकारान्तः