अमरकोशः


श्लोकः

पाठे ब्रह्माञ्जलिः पाठे विप्रुषो ब्रह्मबिन्दवः । ध्यानयोगासने ब्रह्मासनं कल्पे विधिक्रमौ ॥ ३९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ब्रह्माञ्जलि ब्रह्माञ्जलिः पुंलिङ्गः ब्रह्मणोऽञ्जलिः ॥ तत्पुरुषः समासः इकारान्तः
2 ब्रह्मबिन्दु ब्रह्मबिन्दुः पुंलिङ्गः ब्रह्मणो बिन्दवः॥ तत्पुरुषः समासः उकारान्तः
3 ब्रह्मासन ब्रह्मासनम् नपुंसकलिङ्गः तत्पुरुषः समासः अकारान्तः
4 कल्प कल्पः पुंलिङ्गः कल्पते । अच् कृत् अकारान्तः
5 विधि विधिः पुंलिङ्गः वेधनम् । इन् उणादिः इकारान्तः
6 क्रम क्रमः पुंलिङ्गः क्रमणम् । घञ् कृत् अकारान्तः