अमरकोशः


श्लोकः

सितेऽर्जकोऽत्र पाठी तु चित्रको वह्निसंज्ञकः । अर्काह्ववसुकास्फोतगणरूपविकीरणा: ॥ ८० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अर्जक अर्जकः पुंलिङ्गः अर्जयति । ण्वुल् कृत् अकारान्तः
2 पाठिन् पाठी पुंलिङ्गः पाठोऽस्यास्ति । इनि तद्धितः नकारान्तः
3 चित्रक चित्रकः पुंलिङ्गः चित्तं बुद्धिं त्रायते । कन् तद्धितः अकारान्तः
4 वह्निसंज्ञक वह्निसंज्ञकः पुंलिङ्गः वह्निः संज्ञा यस्य । बहुव्रीहिः समासः अकारान्तः
5 अर्काह्व अर्काह्वः पुंलिङ्गः अर्क आह्वा यस्य । बहुव्रीहिः समासः अकारान्तः
6 वसुक वसुकः पुंलिङ्गः वसति । कन् तद्धितः अकारान्तः
7 आस्फोत आस्फोतः पुंलिङ्गः आ स्फोटयति । तत्पुरुषः समासः अकारान्तः
8 गणरूप गणरूपः पुंलिङ्गः नानात्वाद्गणा बहूनि रूपाण्यस्य ॥ बहुव्रीहिः समासः अकारान्तः
9 विकिरण विकिरणः पुंलिङ्गः विकिरति । क्युन् उणादिः अकारान्तः