अमरकोशः


श्लोकः

स्फूर्जथुर्वज्रनिर्घोषे मेघज्योतिरिरंमदः । इन्द्रायुधं शक्रधनुः तदेव ऋजु रोहितम् ॥ १० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 स्फूर्जथु स्फूर्जथुः पुंलिङ्गः स्फूर्जनं स्फूर्जथुः । अथुच् कृत् उकारान्तः
2 वज्रनिर्घोष वज्रनिर्घोषः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
3 मेघज्योतिस् मेघज्योतिः पुंलिङ्गः अन्योन्यस्य संघट्टेन मेघान्निःसृत्य वृक्षादौ ज्योतिः पतति स इरंमदः । तत्पुरुषः समासः सकारान्तः
4 इरंमद इरमंदः पुंलिङ्गः इरया जलेन माद्यति दीप्यते । खश् कृत् अकारान्तः
5 इन्द्रायुध इन्द्रायुधम् नपुंसकलिङ्गः इन्द्रस्यायुधम्। तत्पुरुषः समासः अकारान्तः
6 शक्रधनुस् शक्रधनुः नपुंसकलिङ्गः शक्रस्य धनुः । तत्पुरुषः समासः सकारान्तः
7 ऋजुरोहित ऋजुरोहितम् नपुंसकलिङ्गः तदिन्द्रधनुरुत्पातादिना ऋजु अवक्रं सद्रोहितं स्यात् । इतन् उणादिः अकारान्तः