अमरकोशः


श्लोकः

अन्त्रं पुरीतद् गुल्मस्तु प्लीहा पुंस्यथ वस्नसा । स्नायुः स्त्रियां कालखण्डयकृती तु समे इमे ॥ ६६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अन्त्र अन्त्रम् नपुंसकलिङ्गः अमति । ष्ट्रन् उणादिः अकारान्तः
2 पुरीतत् पुरीतत् पुंलिङ्गः, नपुंसकलिङ्गः पुरीं शरीरं तनोति । क्विप् कृत् तकारान्तः
3 गुल्म गुल्मः पुंलिङ्गः ग्विति । मक् कृत् अकारान्तः
4 प्लीहन् प्लीहा पुंलिङ्गः प्लेहते । कनिन् उणादिः नकारान्तः
5 वस्नसा वस्नसा स्त्रीलिङ्गः वस्ते शरीरम् । कृत् आकारान्तः
6 स्नायु स्नायुः स्त्रीलिङ्गः स्नाति । उण् बाहुलकात् उकारान्तः
7 कालखण्ड कालखण्डम् नपुंसकलिङ्गः कालं च तत्खण्डं च ॥ तत्पुरुषः समासः अकारान्तः
8 यकृत् यकृत्म् नपुंसकलिङ्गः यमनम् । क्विप् कृत् तकारान्तः