अमरकोशः


श्लोकः

अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम् । अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः ॥ ६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अभ्यन्तर अभ्यन्तरम् नपुंसकलिङ्गः अभिगतमन्तरम् । अव्ययीभावः समासः अकारान्तः
2 अन्तराल अन्तरालम् नपुंसकलिङ्गः अन्तरं लाति । तत्पुरुषः समासः अकारान्तः
3 चक्रवाल चक्रवालम् पुंलिङ्गः, नपुंसकलिङ्गः चक्राकारेण वलते । अच् कृत् अकारान्तः
4 मण्डल मण्डलम् नपुंसकलिङ्गः मण्डयति । कलच् उणादिः अकारान्तः
5 अभ्र अभ्रम् नपुंसकलिङ्गः अपो बिभर्ति । तत्पुरुषः समासः अकारान्तः
6 मेघ मेघः पुंलिङ्गः मेहति । अच् कृत् अकारान्तः
7 वारिवाह वारिवाहः पुंलिङ्गः वारि वहति । तत्पुरुषः समासः अकारान्तः
8 स्तनयित्नु स्तनयित्नुः पुंलिङ्गः स्तनयति । इत्नुच् उणादिः उकारान्तः
9 बलाहक बलाहकः पुंलिङ्गः वारिवाहकः । क्वुन् उणादिः अकारान्तः