अमरकोशः


श्लोकः

सहस्रपत्त्रं कमलं शतपत्त्रं कुशेशयम् । पङ्केरुहं तामरसं सारसं सरसीरुहम् ॥ ४० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सहस्रपत्र सहस्रपत्रम् नपुंसकलिङ्गः सहस्रं पत्त्राण्यस्य । अकारान्तः
2 कमल कमलम् नपुंसकलिङ्गः कं जलमलति । कः कृत् अकारान्तः
3 शतपत्त्र शतपत्त्रम् नपुंसकलिङ्गः शतं पत्राण्यस्य । अकारान्तः
4 कुशेशय कुशेशयम् नपुंसकलिङ्गः कुशे जले शेते । अच् कृत् अकारान्तः
5 पङ्केरुह पङ्केरुहम् नपुंसकलिङ्गः पङ्के रोहति । कः कृत् अकारान्तः
6 तामरस तामरसम् नपुंसकलिङ्गः तत्र सस्ति । डः कृत् अकारान्तः
7 सारस सारसम् नपुंसकलिङ्गः सरसि भवम् । अण् तद्धितः अकारान्तः
8 सरसीरुह सरसीरुहम् नपुंसकलिङ्गः सरस्यां रोहति । कः कृत् अकारान्तः