अमरकोशः


श्लोकः

निकृत: स्याद्विप्रकृतो विप्रलब्धस्तु वञ्चितः । मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः ॥ ४१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निकृत निकृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न्यकारि क्तः कृत् अकारान्तः
2 विप्रकृत विप्रकृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विप्राकारि क्तः कृत् अकारान्तः
3 विप्रलब्ध विप्रलब्धः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विप्रलभ्यते स्म क्तः कृत् अकारान्तः
4 वञ्चित वञ्चितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वञ्च्यते स्म क्तः कृत् अकारान्तः
5 मनोहत मनोहतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मनो हतं यस्य क्तः कृत् अकारान्तः
6 प्रतिहत प्रतिहतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रति हन्यते स्म क्तः कृत् अकारान्तः
7 प्रतिबद्ध प्रतिबद्धः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रतिबध्यते स्म क्तः कृत् अकारान्तः
8 हत हतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः हन्यते स्म क्तः कृत् अकारान्तः