अमरकोशः


श्लोकः

सर्वानुभूतिः सरला त्रिपुटा त्रिवृता त्रिवृत् । त्रिभण्डी रोचनी श्यामापालिन्द्यौ तु सुषेणिका ॥ १०८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सर्वानुभूति सर्वानुभूतिः स्त्रीलिङ्गः सर्वा अनुभूतयोऽस्याम् । बहुव्रीहिः समासः इकारान्तः
2 सरला सरला स्त्रीलिङ्गः सरति । अलच् बाहुलकात् आकारान्तः
3 त्रिपुटा त्रिपुटा स्त्रीलिङ्गः त्रयः पुटा यस्याः । बहुव्रीहिः समासः आकारान्तः
4 त्रिवृता त्रिवृता स्त्रीलिङ्गः त्रिभिरवयवैर्वृता ॥ तत्पुरुषः समासः आकारान्तः
5 त्रिवृत् त्रिवृत् स्त्रीलिङ्गः त्रीनवयवान् वृणोति । तत्पुरुषः समासः तकारान्तः
6 त्रिभण्डी त्रिभण्डी स्त्रीलिङ्गः त्रीन् दोषान् भण्डते । तत्पुरुषः समासः ईकारान्तः
7 रोचनी रोचनी स्त्रीलिङ्गः रोचते । ल्युट् कृत् ईकारान्तः
8 श्यामा श्यामा स्त्रीलिङ्गः श्यायते । मक् उणादिः आकारान्तः
9 पालिन्दी पालिन्दी स्त्रीलिङ्गः पालयति । किन्दच् बाहुलकात् ईकारान्तः
10 सुषेणिका सुषेणिका स्त्रीलिङ्गः सुष्ठ सेनया याति । तत्पुरुषः समासः आकारान्तः