अमरकोशः


श्लोकः

सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः । उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च ॥ ९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सिनीवाली सिनीवाली स्त्रीलिङ्गः सिनीं वलति धारयति । तत्पुरुषः समासः ईकारान्तः
2 कुहू कुहूः स्त्रीलिङ्गः कुहयति । कू उणादिः ऊकारान्तः
3 उपराग उपरागः पुंलिङ्गः उपरज्यतेऽनेना । घञ् कृत् अकारान्तः
4 ग्रह ग्रहः पुंलिङ्गः ग्रहणं ग्रह: अप् कृत् अकारान्तः