अमरकोशः


श्लोकः

रथाभ्रपुष्पविदुलशीतवानीरवञ्जुलाः । द्वौ परिव्याधविदुलौ नादेयी चाम्बुवेतसे ॥ ३० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रथ रथः पुंलिङ्गः क्थन् उणादिः अकारान्तः
2 अभ्रपुष्प अभ्रपुष्पः पुंलिङ्गः बहुव्रीहिः समासः अकारान्तः
3 विदुल विदुलः पुंलिङ्गः उलच् बाहुलकात् अकारान्तः
4 शीत शीतः पुंलिङ्गः अच् तद्धितः अकारान्तः
5 वानीर वानीरः पुंलिङ्गः बहुव्रीहिः समासः अकारान्तः
6 वञ्जुल वञ्जुलः पुंलिङ्गः उलच् बाहुलकात् अकारान्तः
7 परिव्याध परिव्याधः पुंलिङ्गः घञ् कृत् अकारान्तः
8 विदुल विदुलः पुंलिङ्गः अकारान्तः
9 नादेयी नादेयी स्त्रीलिङ्गः ढक् तद्धितः ईकारान्तः
10 अम्बुवेतस अम्बुवेतसः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः