अमरकोशः


श्लोकः

वलिनो ये सहस्रेण साहस्रास्ते सहस्रिणः । परिधिस्थः परिचर: सेनानीर्वाहिनीपतिः ॥ ६२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 साहस्र साहस्रः पुंलिङ्गः सहस्त्रं बलानि सन्ति येषाम् । अण् तद्धितः अकारान्तः
2 सहस्रिन् सहस्रिणः पुंलिङ्गः सहस्त्रं बलानि सन्ति येषाम् । इनि तद्धितः नकारान्तः
3 परिधिस्थ परिधिस्थः पुंलिङ्गः परिधौ सेनान्ते तिष्ठति । कृत् अकारान्तः
4 परिचर परिचरः पुंलिङ्गः परितश्चरति । अच् कृत् अकारान्तः
5 सेनानी सेनानीः पुंलिङ्गः सेनां नयति । क्विप् कृत् ईकारान्तः
6 वाहिनीपति वाहिनीपतिः पुंलिङ्गः वाहिन्याः पतिः ॥ तत्पुरुषः समासः इकारान्तः