अमरकोशः


श्लोकः

आश्रमोऽस्त्री द्विजात्यग्रजन्मभूदेववाडवाः । विप्रश्च ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्युतः ॥ ४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आश्रम आश्रमः पुंलिङ्गः चत्वारोऽवयवा यस्य । घञ् कृत् अकारान्तः
2 द्विजाति द्विजातिः पुंलिङ्गः द्वे जातौ जन्मनी यस्य । बहुव्रीहिः समासः इकारान्तः
3 अग्रजन्मन् अग्रजन्मन् पुंलिङ्गः अग्र आदौ जन्मास्या ॥ बहुव्रीहिः समासः नकारान्तः
4 भूदेव भूदेवः पुंलिङ्गः भुवो भुवि वा देव इव ॥ तत्पुरुषः समासः अकारान्तः
5 वाडव वाडवः पुंलिङ्गः वडवायां जातः । अण् तद्धितः अकारान्तः
6 विप्र विप्रः पुंलिङ्गः विप्राति । कृत् अकारान्तः
7 ब्राह्मण ब्राह्मणः पुंलिङ्गः ब्रह्मणोऽपत्यम् । अण् तद्धितः अकारान्तः
8 षट्कर्मन् षट्कर्मन् पुंलिङ्गः षट्कर्माण्यस्य । बहुव्रीहिः समासः नकारान्तः