अमरकोशः


श्लोकः

दार्वाघाटोऽथ शारङ्गस्तोककश्चातकः समाः । कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः ॥ १७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दार्वाघाट दार्वाघाटः पुंलिङ्गः दारु आहन्ति । अण् कृत् अकारान्तः
2 शारङ्ग शारङ्गः पुंलिङ्गः शारयति, शार्यते, वातपादिना । अङ्गच् उणादिः अकारान्तः
3 स्तोकक स्तोककः पुंलिङ्गः स्तोकं कं जलमस्य । बहुव्रीहिः समासः अकारान्तः
4 चातक चातकः पुंलिङ्गः चतति । ण्वुल् कृत् अकारान्तः
5 कृकवाकु कृकवाकुः पुंलिङ्गः कृकेन गलेन वक्ति । ञुण् उणादिः उकारान्तः
6 ताम्रचूड ताम्रचूडः पुंलिङ्गः ताम्रा चूडास्य ॥ बहुव्रीहिः समासः अकारान्तः
7 कुक्कुट कुक्कुटः पुंलिङ्गः कुत्सितः कुटो वा । तत्पुरुषः समासः अकारान्तः
8 चरणायुध चरणायुधः पुंलिङ्गः चरण आयुधमस्य ॥ बहुव्रीहिः समासः अकारान्तः