अमरकोशः


श्लोकः

अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि । स्वाम्यमात्यसुहृत्कोषराष्ट्रदुर्गबलानि च ॥ १७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अध्वनीन अध्वनीनः पुंलिङ्गः अध्वानमलं गच्छति । तद्धितः अकारान्तः
2 अध्वग अध्वगः पुंलिङ्गः अध्वानं गच्छति । कृत् अकारान्तः
3 अध्वन्य अध्वन्यः पुंलिङ्गः यत् तद्धितः अकारान्तः
4 पान्थ पान्थः पुंलिङ्गः पन्थानं नित्यं गच्छति । तद्धितः अकारान्तः
5 पथिक पथिकः पुंलिङ्गः ष्कन् तद्धितः अकारान्तः