अमरकोशः


श्लोकः

अन्तरीयोपसंव्यानपरिधानान्यधोंशके । द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा ॥ ११७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अन्तरीय अन्तरीयम् नपुंसकलिङ्गः अन्तरे भवम् । तद्धितः अकारान्तः
2 उपसंव्यान उपसंव्यानम् नपुंसकलिङ्गः उपसंवीयतेऽनेन । ल्युट् कृत् अकारान्तः
3 परिधान परिधानम् नपुंसकलिङ्गः परिधीयते । ल्युट् कृत् अकारान्तः
4 अधोंशुक अधोंशुकम् नपुंसकलिङ्गः अधोदेहभागस्यांशुकम् ॥ तत्पुरुषः समासः अकारान्तः
5 प्रावार प्रावारः पुंलिङ्गः प्र म्रियतेऽनेन । घञ् कृत् अकारान्तः
6 उत्तरासङ्ग उत्तरासङ्गः पुंलिङ्गः उत्तरे ऊर्ध्वभागे आसज्यते । घञ् कृत् अकारान्तः
7 बृहतिका बृहतिका स्त्रीलिङ्गः बृहत्येव । कन् तद्धितः आकारान्तः