अमरकोशः


श्लोकः

प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च । ग्रन्थिपर्णं शुकं बर्हिपुष्पं स्थौणेयकुक्कुरे ॥ १३२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्लव प्लवम् नपुंसकलिङ्गः प्लवते । अच् कृत् अकारान्तः
2 गोपुर गोपुरम् नपुंसकलिङ्गः गां जलं पिपर्ति। कृत् अकारान्तः
3 गोनर्ध गोनर्धम् नपुंसकलिङ्गः गां जलं नर्दयति । अण् कृत् अकारान्तः
4 कैवर्तीमुस्तक कैवर्तीमुस्तकम् नपुंसकलिङ्गः कैवर्तानां जातिः कैवर्ती । तत्पुरुषः समासः अकारान्तः
5 ग्रन्थिपर्ण ग्रन्थिपर्णम् नपुंसकलिङ्गः ग्रन्थौ पर्णान्यस्य । बहुव्रीहिः समासः अकारान्तः
6 शुक शुकम् नपुंसकलिङ्गः शोचति । कक् उणादिः अकारान्तः
7 बर्हिपुष्प बर्हिपुष्पम् नपुंसकलिङ्गः बर्हं पत्त्रं प्रशस्तमस्य । इनि तद्धितः अकारान्तः
8 स्थौणेय स्थौणेयम् नपुंसकलिङ्गः स्थूणाया अपत्यम् । ढक् तद्धितः अकारान्तः
9 कुक्कुर कुक्कुरम् नपुंसकलिङ्गः कुक्कुरोऽस्यास्ति । अच् तद्धितः अकारान्तः