अमरकोशः


श्लोकः

लोष्टानि लेष्टवः पुंसि कोटिशो लोष्टभेदनः । प्राजनं तोदनं तोत्रं खनित्रमवदारणं ॥ १२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 लोष्ट लोष्टः पुंलिङ्गः, नपुंसकलिङ्गः लोष्टति । अच् कृत् अकारान्तः
2 लेष्टु लेष्टुः पुंलिङ्गः लिश्यते, लिशति, वा । तुन् बाहुलकात् उकारान्तः
3 कोटिश कोटिशः पुंलिङ्गः कोटिना अग्रेण श्यति । कृत् अकारान्तः
4 लोष्टभेदन लोष्टभेदनम् नपुंसकलिङ्गः लोष्टानां भेदनः ॥ तत्पुरुषः समासः अकारान्तः
5 प्राजन प्राजनम् नपुंसकलिङ्गः प्रवीयतेऽनेन ल्युट् कृत् अकारान्तः
6 तोदन तोदनम् नपुंसकलिङ्गः तुद्यतेऽनेन ल्युट् कृत् अकारान्तः
7 तोत्र तोत्रम् नपुंसकलिङ्गः ष्ट्रन् कृत् अकारान्तः
8 खनित्र खनित्रम् नपुंसकलिङ्गः खन्यतेऽवदार्यतेऽनेन । इत्र कृत् अकारान्तः
9 अवदारण अवदारणम् नपुंसकलिङ्गः अवदार्यतेऽनेन । ल्युट् कृत् अकारान्तः