अमरकोशः


श्लोकः

मन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीर्घिका । मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः ॥ ४९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मन्दाकिनी मन्दाकिनी स्त्रीलिङ्गः मन्दमकितुं शीलमस्या: । बहुव्रीहिः समासः ईकारान्तः
2 वियद्गङ्गा वियद्गङ्गा स्त्रीलिङ्गः वियति वियतो वा गङ्गा । तत्पुरुषः समासः आकारान्तः
3 स्वर्णदी स्वर्णदी स्त्रीलिङ्गः स्वः स्वर्गस्य नदी । तत्पुरुषः समासः ईकारान्तः
4 सुरदीर्घिका सुरदीर्घिका स्त्रीलिङ्गः सुराणां दीर्घिकेव । तत्पुरुषः समासः आकारान्तः
5 मेरु मेरुः पुंलिङ्गः मिनोत्युच्चत्वाज्ज्योतींषि । रु उणादिः उकारान्तः
6 सुमेरु सुमेरुः पुंलिङ्गः तत्पुरुषः समासः उकारान्तः
7 हेमाद्रि हेमाद्रिः पुंलिङ्गः हेम्नोऽद्रिः । तत्पुरुषः समासः इकारान्तः
8 रत्नसानु रत्नसानुः पुंलिङ्गः रत्नानि सानावस्य । बहुव्रीहिः समासः उकारान्तः
9 सुरालय सुरालयः पुंलिङ्गः सुराणामालयः । तत्पुरुषः समासः अकारान्तः