अमरकोशः


श्लोकः

तोक्मस्तु तत्र हरिते कलायस्तु सतीनकः । हरेणुखण्डिकौ चास्मिन् कोरदूषस्तु कोद्रवः ॥ १६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तोक्म तोक्मः पुंलिङ्गः तकति । बाहुलकात् अकारान्तः
2 कलाय कलायः पुंलिङ्गः कलमयते अण् कृत् अकारान्तः
3 सतीनक सतीनकः पुंलिङ्गः सति जीवे इनः प्रभुः । तत्पुरुषः समासः अकारान्तः
4 हरेणु हरेणुः पुंलिङ्गः हरति । एणु उणादिः उकारान्तः
5 खण्डिक खण्डिकः पुंलिङ्गः खण्डोऽस्यास्ति । ठन् तद्धितः अकारान्तः
6 कोरदूषक कोरदूषकः पुंलिङ्गः कोरं रुधिरं दूषयति । अण् कृत् अकारान्तः
7 कोद्रव कोद्रवः पुंलिङ्गः कौश्चासौ द्रवश्च । तत्पुरुषः समासः अकारान्तः