अमरकोशः


श्लोकः

ध्रुवोपभृज्जुहूर्ना तु स्रुवो भेदा: स्रुचः स्त्रियः । उपाकृतः पशुरसौ योऽभिमन्त्र्य क्रतौ हतः ॥ २५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ध्रुवा ध्रुवा स्त्रीलिङ्गः ध्रुवति । कृत् आकारान्तः
2 उपभृत् उपभृत् स्त्रीलिङ्गः उपबिभर्ति । क्विप् कृत् तकारान्तः
3 जुहू जुहू स्त्रीलिङ्गः जुहोति । क्विप् कृत् ऊकारान्तः
4 स्रुव स्रुवः पुंलिङ्गः, स्त्रीलिङ्गः स्रवति । उणादिः अकारान्तः
5 उपाकृत उपाकृतः पुंलिङ्गः उपाक्रियते स्म । क्त कृत् अकारान्तः