अमरकोशः


श्लोकः

वृश्चिक: शूककीटः स्यादलिद्रुणौ तु वृश्चिके । पारावत: कलरवः कपोतोऽथ शशादनः ॥ १४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वृश्चिक वृश्चिकः पुंलिङ्गः वृश्चति । किकन् उणादिः अकारान्तः
2 शूककीट शूककीटः पुंलिङ्गः शुकयुक्तः कीटः। तत्पुरुषः समासः अकारान्तः
3 अलि अलिः पुंलिङ्गः अलतिदंशे समर्थो भवति । इन् उणादिः इकारान्तः
4 द्रुण द्रुणः पुंलिङ्गः द्रुणति । कृत् अकारान्तः
5 वृश्चिक वृश्चिकः पुंलिङ्गः वृश्चति । किकन् उणादिः अकारान्तः
6 पारावत पारावतः पुंलिङ्गः परं जीवमवति । तत्पुरुषः समासः अकारान्तः
7 कलरव कलरवः पुंलिङ्गः कलो रवोऽस्य ॥ बहुव्रीहिः समासः अकारान्तः
8 कपोत कपोतः पुंलिङ्गः कस्य वायोः पोत इव बहुव्रीहिः समासः अकारान्तः
9 शशादन शशादनः पुंलिङ्गः शशमत्ति । ल्यु कृत् अकारान्तः