अमरकोशः


श्लोकः

साक्षराङ्गुलिमुद्रा स्यात्कङ्कणं करभूषणम् । स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा ॥ १०८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अङ्गुलिमुद्रा अङ्गुलिमुद्रा स्त्रीलिङ्गः अङ्गुल्या मुदं राति । कृत् आकारान्तः
2 कङ्कण कङ्कणः पुंलिङ्गः, नपुंसकलिङ्गः कं शुभं कणति । अच् कृत् अकारान्तः
3 करभूषण करभूषणम् नपुंसकलिङ्गः करं भूषयति । ल्युट् कृत् अकारान्तः
4 मेखला मेखला स्त्रीलिङ्गः मखं गतिं लाति । कृत् आकारान्तः
5 काञ्ची काञ्ची स्त्रीलिङ्गः काञ्चते । इन् उणादिः ईकारान्तः
6 सप्तकी सप्तकी स्त्रीलिङ्गः सपति । तन् बाहुलकात् ईकारान्तः
7 रशना रशना स्त्रीलिङ्गः युच् उणादिः आकारान्तः