अमरकोशः


श्लोकः

विष्वक्सेना गन्धफली कारम्भा प्रियकश्च सा । मण्डूकपर्णपत्रोर्णनटकट्वङ्गटुण्टुकाः ॥ ५६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विष्वक्सेना विष्वक्सेना स्त्रीलिङ्गः विष्वक् सिनोति । समासः आकारान्तः
2 गन्धफली गन्धफली स्त्रीलिङ्गः गन्धवत् फलमस्याः । बहुव्रीहिः समासः ईकारान्तः
3 कारम्भा कारम्भा स्त्रीलिङ्गः ईषद् रम्भा । आकारान्तः
4 प्रियक प्रियकः पुंलिङ्गः प्रीणाति । क्वुन् उणादिः अकारान्तः
5 मण्डूकपर्ण मण्डूकपर्णः पुंलिङ्गः मण्डूक इव पर्णमस्य ॥ बहुव्रीहिः समासः अकारान्तः
6 पत्रोर्ण पत्रोर्णः पुंलिङ्गः पत्रे ऊर्णाऽस्य । बहुव्रीहिः समासः अकारान्तः
7 नट नटः पुंलिङ्गः नटति । अच् कृत् अकारान्तः
8 कट्वङ्ग कट्वङ्गः पुंलिङ्गः कटून्यङ्गान्यस्य ॥ बहुव्रीहिः समासः अकारान्तः
9 टुण्टुक टुण्टुकः पुंलिङ्गः 'टुण्टु' इति कायति । तत्पुरुषः समासः अकारान्तः