अमरकोशः


श्लोकः

भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः । मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥ ३१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 भूतेश भूतेशः पुंलिङ्गः भूतानामीशः । तत्पुरुषः समासः अकारान्तः
2 खण्डपरशु खण्डपरशुः पुंलिङ्गः खण्डयतीति खण्डः परशुरस्य । बहुव्रीहिः समासः उकारान्तः
3 गिरीश गिरीशः पुंलिङ्गः गिरेरीशः । तत्पुरुषः समासः अकारान्तः
4 गिरिश गिरिशः पुंलिङ्गः गिरिराश्रयत्वेनास्यास्ति । तद्धितः अकारान्तः
5 मृड मृडः पुंलिङ्गः मृडति । कृत् अकारान्तः
6 मृत्युंजय मृत्युंजयः पुंलिङ्गः मृत्युं जयति । तत्पुरुषः समासः अकारान्तः
7 कृत्तिवासस् कृत्तिवासाः पुंलिङ्गः कृत्तिश्चर्म वासोऽस्य । बहुव्रीहिः समासः सकारान्तः
8 पिनाकिन् पिनाकी पुंलिङ्गः पिनाकोऽस्यास्ति । इनि तद्धितः नकारान्तः
9 प्रमथाधिप प्रमथाधिपः पुंलिङ्गः प्रमथानामधिपः । तत्पुरुषः समासः अकारान्तः