अमरकोशः


श्लोकः

सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः । शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः ॥ ५६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सप्तार्चिस् सप्तार्चिः पुंलिङ्गः सप्तार्चिषो यस्य । बहुव्रीहिः समासः सकारान्तः
2 दमुनस् दमुनाः पुंलिङ्गः दाम्यति । उनस् उणादिः सकारान्तः
3 शुक्र शुक्रः पुंलिङ्गः शोचयति । रन् उणादिः अकारान्तः
4 चित्रभानु चित्रभानुः पुंलिङ्गः चित्रा भानवोऽस्य । बहुव्रीहिः समासः उकारान्तः
5 विभावसु विभावसुः पुंलिङ्गः विभा प्रभा वसु धनं यस्य । बहुव्रीहिः समासः उकारान्तः
6 शुचि शुचिः पुंलिङ्गः शुचिं पवित्रं करोति शुचयति । उणादिः इकारान्तः
7 अप्पित अप्पित्तम् पुंलिङ्गः अपां पित्तमिव । तत्पुरुषः समासः अकारान्तः
8 और्व और्वः पुंलिङ्गः उर्वस्य मुनेरपत्यम् । अण् तद्धितः अकारान्तः
9 बाडव बाडवः पुंलिङ्गः बडवायां भवः । अण् तद्धितः अकारान्तः
10 बडवानल बडवानलः पुंलिङ्गः बडवाया अनलः । तत्पुरुषः समासः अकारान्तः