अमरकोशः


श्लोकः

अस्त्री पङ्कं पुमान्पाप्मा पापं किल्बिषकल्मषम् । कलुषं वृजिनैनोघमंहो दुरितदुष्कृतम् ॥ २३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पङ्क पङ्कम् पुंलिङ्गः, स्त्रीलिङ्गः पच्यते दुःखमनेन । घञ् कृत् अकारान्तः
2 पाप्मन् पाप्मा पुंलिङ्गः आप्नोति व्याप्नोति लोकान् । मनिन् उणादिः नकारान्तः
3 पाप पापम् नपुंसकलिङ्गः पान्त्यस्मादात्मानम् । उणादिः अकारान्तः
4 किल्बिष किल्बिषम् नपुंसकलिङ्गः केलयति क्रीडयति विषयेषु । टिषच् उणादिः अकारान्तः
5 कल्मष कल्मषम् नपुंसकलिङ्गः शुभं कर्म स्यति समाप्तं करोति । कृत् अकारान्तः
6 कलुष कलुषम् नपुंसकलिङ्गः कलयति वशीकरोति । उषच् उणादिः अकारान्तः
7 वृजिन वृजिनम् नपुंसकलिङ्गः वृज्यते । इनच् उणादिः अकारान्तः
8 एनस् एनः नपुंसकलिङ्गः यन्त्यधोऽनेन । असुन् उणादिः सकारान्तः
9 अघ अघम् नपुंसकलिङ्गः अङ्गते गच्छति दानादिना । अच् कृत् अकारान्तः
10 अंहस् अंहः नपुंसकलिङ्गः अमति गच्छति । असुन् उणादिः सकारान्तः
11 दुरित दुरितम् नपुंसकलिङ्गः दुष्टमितं गमनमनेन । क्त कृत् अकारान्तः
12 दुष्कृत दुष्कृतम् नपुंसकलिङ्गः दुष्टं कृतं करणमनेन । तत्पुरुषः समासः अकारान्तः